1-23

युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ।।

Vocabulary (mostly from Monier Williams online dictionary)

युग = an age of the world
संहृत = drawn or brought together
आत्म = nature
जगत् = world
विकास = m. expanding , budding , blowing
तनु = f. the body , person , self
तपस् = religious austerity
अभ्यागम = m. approaching , arrival , visit , visitation
मुद् = f. joy , delight , gladness , happiness

पदच्छेदः

युगान्तकालप्रतिसंहृतात्मनः जगन्ति यस्याम् सविकासम् आसत तनौ ममुः तत्र कैटभद्विषः तपोधनाभ्यागमसंभवाः मुदः

आकाङ्क्षा

Sentence #2
मुदः न ममुः ।
मुदः कथं भूताः? तपोधनाभ्यागमसंभवाः
कस्याम्? तनौ
तनौ कथं भूतायाम्? तत्र
कस्य? कैटभद्विषः

Sentence #1
जगन्ति आसत ।
कथं? सविकासम्
कस्याम्? यस्याम्
कैटभद्विषः कथं कस्य? युगान्तकालप्रतिसंहृतात्मनः

Rearrange words so that the meaning is clearer:

युगान्तकालप्रतिसंहृतात्मनः यस्यां (तनौ) जगन्ति सविकासम् आसत कैटभद्विषः तनौ तत्र तपोधनाभ्यागमसंभवाः मुदः न ममुः

शब्दानां विचारः

युगस्य अन्तः युगान्तः, युगान्तश्चासौ कालश्च युगान्तकालः, युगान्तकाले प्रतिसंहृतः युगान्तकालप्रतिसंहृतः, युगान्तकालप्रतिसंहृतः आत्मा यस्य सः युगान्तकालप्रतिसंहृतात्मा, तस्य युगान्तकालप्रतिसंहृतात्मनः
युगान्तकालप्रतिसंहृतात्मनः युगान्तकालप्रतिसंहृतात्मनोः युगान्तकालप्रतिसंहृतात्मनाम्
युगान्तकालप्रतिसंहृतात्मन्शब्दः नकारान्तः पुँल्लिङ्गः षष्ठ्येकवचनान्तः

जगत् जगती जगन्ति
जगच्छब्दः तकारान्तो नपुंसकलिङ्गः प्रथमाबहुवचनान्तः

यस्याम् ययोः यासु
यच्छब्दः दकारान्तः स्त्रीलिङ्गः सप्म्येकवचनान्तः

विकासेन सह वर्तते इति सविकासम्
सविकासम् is अव्ययम्

आस्त आसाताम् आसत
आस्थाः आसाथाम् आध्वम्
आसि आस्वहि आस्महि
“आस उपवेशने” इति धातोः कर्तरि लङि प्रथमपुरुषबहुवचनम्

तनौ, तन्वाम, तनोः तनुषु
तनुशब्दः उकारान्तः सत्रीलिङ्गः सप्तम्येकवचनान्तः

ममौ ममतुः ममुः
ममिथ,ममाथ ममथुः मम
ममौ ममिव ममिम
“मा माने” इति धातोः कर्तरि लिटि प्रथमुपुषबहुवचनम्
Note that the धातुः cannot be “माङ् माने शब्दे च” because माङ् is आत्मनेपदी and its forms would be like ममे ममाते ममिरे etc.

तत्र is अव्ययम्

कैटभं द्वेष्टि इति कैटभद्विट्, तस्य कैटभद्विषः
कैटभद्विषः कैटभद्विषोः कैटभद्विषाम्
कैटभद्विट्छब्दः षकारान्तः पुँल्लिङ्गः षष्ठ्येकवचनान्तः

तप एव धनं यस्य सः तपोधनः, तपोधनस्य अभ्यागमः तपोधनाभ्यागमः, तपोधनाभ्यागमात् संभवन्ति इति तपोधनाभ्यागमासंभवाः
तपोधनाभ्यागमासंभवा तपोधनाभ्यागमासंभवे तपोधनाभ्यागमासंभवाः
तपोधनाभ्यागमासंभवाशब्दः आकारान्तः स्त्रीलिङ्गः प्रथमाबहुवचनान्तः
Here तपोधनाभ्यागमासंभवाः is an adjective to मुदः (स्त्रीलिङ्गशब्दः) and hence is declined like रमा

मुद् मुदौ मुदः
मुच्छब्दः दकारान्तः स्त्रीलिङ्गः प्रथमाबहुवचनान्तः

This entry was posted in Uncategorized. Bookmark the permalink.

1 Response to 1-23

  1. जगन्नाथः says:

    अतीव प्रसीदति मनो मे संस्कृतभाषायां दृष्टैतादृशोपक्रमस्य। यद् भवन्तः संस्कृतभाषायां

    व्युत्पत्तिविशेषाधायिकां माघव्याख्यां योजयन्ति, तत्तु नूनं सुवर्णामोदायते। अत्र वर्तमानस्य माघकवेः

    पद्यस्य किञ्चित् परिवर्तनं कृत्वा मयेत्थं पठ्यते-

    कृतीर्नवाः संस्कृतभाषया कृता अवेक्षितुं संधरतः कुतूहलम्।
    तनौ ममुर्मे न समीक्षितेदृशक्रियाप्रकारप्रभवा महामुदः ।।

Leave a comment