अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ।।
Vocabulary
अनुत्सूत्रपदन्यासा = Containing action that is against नीतिशास्त्रम्, Having पदमञ्जरी and न्यासः commentaries that do not violate Panini’s sutra
सद्वृत्तिः = Having the means for a good livelihood of ministers, courtiers etc., Having वृत्तिग्रन्थः like काशिका etc.
सन्निबन्धना = Having good gifts, Having a good भाष्यग्रन्थः (महाभाष्यम्)
स्पश = spy
अपस्पशा = Without spies (detectives), Without a book named पस्पशा (the introductory portion of Patanjali’s Mahabhasya called पस्पशाह्निकम्)
पदच्छेदः
अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना शब्दविद्या इव नो भाति राजनीति: अपस्पशा
आकाङ्क्षा
There’s a beautiful comparison between राजनीतिः and व्याकरणशास्त्रम् in this verse.
राजनीतिः नो भाति ।
का इव? शब्दविद्या इव
राजनीतिः कथं भूता? अपस्पशा
पुनः कथं भूता? सन्निबन्धना
पुनः कथं भूता? सद्वृत्तिः
पुनः कथं भूता? अनुत्सूत्रपदन्यासा
शब्दविद्या कथं भूता? अपस्पशा (न विद्यते पस्पशा यस्यां सा अपस्पशा)
पुनः कथं भूता? सन्निबन्धना
नः कथं भूता? सद्वृत्तिः
पुनः कथं भूता? अनुत्सूत्रपदन्यासा
Rearrange words so that the meaning is clearer:
अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना अपस्पशा शब्दविद्येव अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना अपस्पशा राजनीतिः नो भाति
शब्दानां विचारः
पदस्य न्यासः पदन्यासः, सूत्रम् उद्गतः उत्सूत्रः, न उत्सूत्रः अनुत्सूत्रः, अनुत्सूत्रः पदन्यासः यस्यां सा अनुत्सूत्रपदन्यासा
अनुत्सूत्रपदन्यासा अनुत्सूत्रपदन्यासे अनुत्सूत्रपदन्यासाः
अनुत्सूत्रपदन्यासाशब्दः आकारान्तस्स्त्रीलिङ्गः प्रथमैकवचनान्तः
सती वृत्तिः यस्यां सा सद्वृत्तिः
सद्वृत्तिः सद्वृत्ती सद्वृत्तयः
सद्वृत्तिशब्दः इकारान्तस्स्त्रीलिङ्गः प्रथमैकवचनान्तः
Note that सती is formed by सत् + ङीप् 4-1-6 उगितश्च
सन्ति निबन्धनानि यस्यां सा सन्निबन्धना
सन्निबन्धना सन्निबन्धने सन्निबन्धनाः
सन्निबन्धनाशब्दः आकारान्तस्स्त्रीलिङ्गः प्रथमैकवचनान्तः
शब्दानां विद्या शब्दविद्या
शब्दविद्या शब्दविद्ये शब्दविद्या:
शब्दविद्याशब्दः आकारान्तस्स्त्रीलिङ्गः प्रथमैकवचनान्तः
इव is अव्ययम्
नो is अव्ययम्
In the Taittiriya upanishad (शीक्षावल्ली) this अव्ययम् is found in the mantra “नो इतराणि”। There’s no अच्सन्धिः here due to 1-1-15 ओत्
भाति भातः भान्ति
भासि भाथः भाथ
भामि भावः भामः
“भा दीप्तौ” इति धातोः कर्तरि लटि प्रथमपुरुषैकवचनम्
राज्ञां नीतिः राजनीतिः
राजनीति: राजनीती राजनीतयः
राजनीतशब्दः इकारान्तस्स्त्रीलिङ्गः प्रथमैकवचनान्तः
अपगताः स्पशाः यस्यां सा अपस्पशा (refers to absence of spies)
न विद्यते पस्पशा यस्यां सा अपस्पशा (lack of the पस्पशाग्रन्थः)
अपस्पशा अपस्पशे अपस्पशाः
अपस्पशाशब्दः आकारान्तस्स्त्रीलिङ्गः प्रथमैकवचनान्तः